देवी ध्यानम्

कालीध्यानम्
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीम् ।
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।।
मुण्डमालाधरां देवीं लोलजिह्वां दिगम्बराम् ।
एवं सञ्चितयत्कालीं श्मशानालयवासिनीम् !

ताराध्यानम्
प्रत्यालीढपदापितांघ्रिशव हृद्घोराट्टहासापरा ।
खड्गेंदीवरकत्रिखरभुजा हुंकारबीजोद्भवा ॥
खर्वानीलविशालपिङ्गलजटाजूटैकनागैर्युता ।
जाड्यं चन्द्रकपालकर्तृजगतां हन्त्युग्रतारा स्वयम् ॥

षोडशीध्यानम्
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशांकुशशरांश्चापं धारयन्तीं शिवां भजे ॥

भुवनेश्वरीध्यानम् ।
उद्यद्दिनद्युतिमिन्दुकिरीटां तुंगकुचां नयनत्रययुक्ताम् ।
स्मेरमुखीं वरदांकुशपाशभीतिकरां प्रथये भुवनेशीम् ॥

भैरवीध्यानम्
उद्यद्भानु सहस्त्र कान्तिमरुणक्षौमां शिरोमालिकाम् ।
रक्तालिप्तपयोधरा जपपटीं विद्यामभीतिं वराम् ॥
हस्ताब्जैर्दधतीं त्रिनेत्रविलसद्रक्तारविन्दश्रियम् ।
देवीं बद्धहिमांशुरत्नमुकुटां वन्दे सुमन्दस्मिताम् ॥

छिन्नमस्ताध्यानम्
प्रत्यालीढपदां सदैव दधतीं छिन्नं शिरः कत्रिकाम् ।
दिग्वस्त्रां स्वकबन्धशोणितसुधाधारां पिबन्ती मुदा ।।
नागाबद्धशिरोर्माण त्रिनयनां हृद्युत्पलालंकृताम् ।
रत्यासक्तमनोभवोपरि दृढां ध्यायेज्जवासन्निभाम् ॥
दक्षे चातिसिता विमुक्तचिकुरा कत्रि तथा खर्परं ।
हस्ताभ्यां दधती रजोगुणभवा नाम्नापि सा र्वाणनी ॥
देव्याच्छिन्नकबन्धतः पतदसृग्धारां पिबन्ती मुदा ।
नागाबद्धशिरोमणिर्मनुविदा धेया सदा सा सुरैः ॥
बामे कृष्णतनुं तथैव दधती खड्गं तथा खप्परं ।
प्रत्यालीढपदां कबन्धविगलद्रक्तं पिबन्ती मुदा ॥
संषा या प्रलये समस्तभुवनं भोक्तुं क्षमा तामसी ।
शक्तिः सापि परात्परा भगवती नाम्ना परा डाकिनी ॥

Comments

Popular posts from this blog

व्यापार / पैसे के लिएवशीकरण (Money / BusinessVashikaran)

प्रेम आकर्षण मंत्र ( Vashikaran Mantra for Lover)

Bavan Veer mantra