वाराह्यनुग्रहाष्टकम्
वाराह्यनुग्रहाष्टकम् ईश्वर उवाच मातर्जगद्रचननाटकसूत्रधार- स्त्वद्रूपमाकलयितुं परमार्थतोऽयम् । ईशोऽप्यनीश्वरपदं समुपैति तादृक्- कोऽन्यः स्तवं किमिव तावकमादधातु ॥ १॥ नामानि किन्तु गृणतस्तव लोकतुण्डे नाडम्बरं स्पृशति दण्डधरस्य दण्डः । यल्लेशलम्बितभवाम्बुनिधिर्यतो यत्- त्वन्नामसंसृतिरियं ननु न स्तुतिस्ते ॥ २॥ त्वच्चिन्तनादरसमुल्लसदप्रमेया- ऽऽनन्दोदयात्समुदितः स्फुटरोमहर्षः । मातर्नमामि सुदिनानि सदेत्यमुं त्वा- मभ्यर्थयेऽर्थमिति पूरयताद्दयालो ॥ ३॥ इन्द्रेन्दुमौलिविधिकेशवमौलिरत्न- रोचिश्चयोज्ज्वलितपादसरोजयुग्मे । चेतो मतौ मम सदा प्रतिबिम्बिता त्वं भूया भवानि विदधातु सदोरुहारे ॥ ४ ॥ लीलोद्धृतक्षितितलस्य वराहमूर्ते- र्वाराहमूर्तिरखिलार्थकरी त्वमेव । प्रालेयरश्मिसुकलोल्लसितावतंसा त्वं देवि वामतनुभागहरा रहस्य ॥ ५॥ त्वामम्ब तप्तकनकोज्ज्वलकान्तिमन्त- र्ये चिन्तयन्ति युवतीतनुमागलान्ताम् । चक्रायुधत्रिनयनाम्बरपोतृवक्त्रां तेषां पदाम्बुजयुगं प्रणमन्ति देवाः ॥ ६॥ त्वत्सेवनस्खलित पापचयस्य मात- र्मोक्षोऽपि यत्र न सतां गणनामुपैति । देवासुरोरगनृपालनमस्य पाद- स्तत्र श्रियः पटुगिरः कियदेवमस्तु ॥ ७...